|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.87. अध्यायः 087
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति राष्ट्रगुप्तिप्रकारादिकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-87-0x(5570)(68191)
राष्ट्रगुप्तिं च मे राजन्राष्ट्रस्यैव तु संग्रहम्।
सम्यग्जिज्ञासमानाय प्रब्रूहि भरतर्षभ॥ 12-87-1(68192)
भीष्म उवाच। 12-87-2x(5571)
राष्ट्रगुप्तिं च ते सम्यग्राष्ट्रस्यैव तु संग्रहम्।
हन्त सर्वं प्रवक्ष्यामि तत्त्वमेकमनाः शृणु॥ 12-87-2(68193)
ग्रामस्याधिपतिः कार्यो दशग्रामपतिस्तथा।
विंशतित्रिंशतीशं च सहस्रस्य च कारयेत्॥ 12-87-3(68194)
ग्रामेयान्ग्रामदोषांश्च ग्रामिकः प्रतिभावेयेत्।
तानाचक्षीत दशिने दशिको विंशिने पुनः॥ 12-87-4(68195)
विंशाधिपस्तु तत्सर्वं वृत्तं जानपदे जने।
ग्रामाणां शतपालाय सर्वमेव निवेदयेत्॥ 12-87-5(68196)
यानि ग्राम्याणि भोज्यानि ग्रामिकस्तान्युपाश्निया।
दशपस्तेन भर्तव्यस्तेनापि द्विगुणाधिपः॥ 12-87-6(68197)
ग्रामं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कुरः।
महान्तं भरतश्रेष्ठ सुस्फीतं जनसंकुलम्।
तत्र ह्यनेकपायत्तं राज्ञो भवति भारत॥ 12-87-7(68198)
शाखानगरमर्हस्तु सहस्रपतिरुत्तमः।
धान्यहैरण्यभोगेन भोक्तुं राष्ट्रीयसंगतः॥ 12-87-8(68199)
तेषां संग्रामकृत्यं स्याद्वामकृत्यं च तेषु यत्।
धर्मज्ञः सचिवः कश्चित्तत्तत्पश्येदतन्द्रितः॥ 12-87-9(68200)
नगरेनगरे वा स्यादेकः सर्वार्थचिन्तकः।
उच्चैः स्थाने घोररूपो नक्षत्राणामिव ग्रहः॥ 12-87-10(68201)
भवेत्स तान्परिक्रामेत्सर्वानेव सभासदः।
तेषां वृत्तिं परिणयेत्कश्चिद्राष्ट्रेषु तच्चरः॥ 12-87-11(68202)
जिघांसवः पापकामाः परस्वादायिनः शठाः।
रक्षाभ्यधिकृता नाम तेभ्यो रक्षेदिमाः प्रजाः॥ 12-87-12(68203)
विक्रयं क्रयमध्वानं भक्तं च सपरिव्ययम्।
योगक्षेमं च संप्रेक्ष्य वणिजां कारयेत्करान्॥ 12-87-13(68204)
उत्पत्तिं दानवृत्तिं च शिल्पं संप्रेक्ष्य चासकृत्।
शिल्पं प्रति करानेवं शिल्पिनः प्रति कारयेत्॥ 12-87-14(68205)
उच्चावचकरन्यायाः पूर्वराज्ञां युधिष्ठिर।
यथायथा न सीदेरंस्तथा कुर्यान्महीपतिः॥ 12-87-15(68206)
फलं कर्म च संप्रेक्ष्य ततः सर्वं प्रकल्पयेत्।
फलं कर्म च निर्हेतु न कश्चित्संप्रवर्तते॥ 12-87-16(68207)
यथा राजा च कर्ता च स्यातां कर्मणि भागिनौ।
संवेक्ष्य तु तथा राज्ञा प्रणेयाः सततं कराः॥ 12-87-17(68208)
नोच्छिद्याहात्मनो मूलं परेषां चापि तृष्णया।
ईहाद्वाराणि संरुध्य राजा संवृतदर्शनः॥ 12-87-18(68209)
प्रद्विषन्ति परिख्यातं राजानमतिखादिनम्।
प्रद्विष्टस्य कुतः श्रेयो संवृतो लभते श्रियम्॥ 12-87-19(68210)
वत्सौपम्येन दोग्धव्यं राष्ट्रमक्षीणबुद्धिना।
भृतो वत्सो जातबलः षीडां सहति भारत॥ 12-87-20(68211)
न कर्म कुरुते वत्सो भृशं दुग्धो युधिष्ठिर।
राष्ट्रमप्यातिदुग्धं हि न कर्म कुरुते महत्॥ 12-87-21(68212)
यो राष्ट्रमनुगृह्णाति परिरक्षन्स्वयं नृपः।
संजातमुपजीवन्स लभते सुमहत्फलम्॥ 12-87-22(68213)
आपदर्थं च निचयात्राजानो हि चिचिन्वते।
राष्ट्रं च कोशभूतं स्यात्कोशो वेश्मगतस्तथा॥ 12-87-23(68214)
पौरजानपदान्सर्वान्संश्रितोषाश्रितांस्तथा।
यथाशक्त्यनुकम्पेत सर्वान्स्वल्पधनानपि॥ 12-87-24(68215)
बाह्यं जनं भेदयित्वा भोक्तव्यो मध्यमः सुखम्।
एवं नास्य प्रकुप्यन्ति जनाः सुखितदुः खिताः॥ 12-87-25(68216)
प्रामेव तु धनादानमनुभाष्य ततः पुनः।
सन्निपत्य स्वविषये भयं राष्ट्रे प्रदर्शयेत्॥ 12-87-26(68217)
इयमापत्समुत्पन्ना परचक्रभयं महत्।
अपि चान्ताय कल्पन्ते वेणोरिव फलागमाः॥ 12-87-27(68218)
अरयो मे समुत्थाय बहुभिर्दस्युभिः सह।
इदमात्मवधायैव राष्ट्रमिच्छन्ति बाधितुम्। 12-87-28(68219)
अस्यामापदि घोरायां संप्राप्ते दारुणे भये।
परित्राणाय भवतः प्रार्थयिष्ये धनानि वः॥ 12-87-29(68220)
प्रतिदास्ये च भवतां सर्वं चाहं भयक्षये।
नारयः प्रतिदास्यन्ति यद्धरेयुर्बलादितः॥ 12-87-30(68221)
कलत्रमादितः कृत्वा सर्वं वो विनशेदिति।
शरीरपुत्रदारार्थमर्थसंचय इष्यते॥ 12-87-31(68222)
नन्दामि वः प्रभावेण पुत्राणामिव चोदये।
यखाशक्त्युपगृह्णामि राष्ट्रस्यापीडया च वः॥ 12-87-32(68223)
आपत्स्वेव निवोढव्यं भवद्भिः संगतैरिह।
न वः प्रियतरं कार्यं धनं कस्यांचिदापदि॥ 12-87-33(68224)
इति वाचा मधुरया श्लक्ष्णया सोपचारया।
स्वरश्मीनभ्यवसृजेद्योगमाधाय कालवित्॥ 12-87-34(68225)
प्रचारं भृत्यभरणं व्ययं संग्रामतो भयम्।
योगक्षेणं च संप्रेक्ष्य गोमिनः कारयेत्करम्॥ 12-87-35(68226)
उपेक्षिता हि नश्येयुर्गोमिनोऽरण्यवासिनः।
तस्मात्तेषु विशेषेण मृदुपूर्वं समाचरेत्॥ 12-87-36(68227)
सान्त्वनं रक्षणं दानमवस्था चाप्यभीक्ष्णशः।
गोमिनां पार्थ कर्तव्यः संविभागः प्रियाणि च॥ 12-87-37(68228)
अजस्रमुपयोक्तव्यं फलं गोमिषु भारत।
प्रभावयन्ति राष्ट्रं च व्यवहारं कृषिं तथा॥ 12-87-38(68229)
तस्माद्गोमिषु यत्नेन प्रीतिं कुर्याद्विचक्षणः।
दयावानप्रमत्तश्च करान्संप्रणयन्मृदून्॥ 12-87-39(68230)
सर्वत्र क्षेमचरणं सुलभं नाम गोमिषु।
न ह्यतः सदृशं किंचिद्धनमस्ति युधिष्ठिर॥ ॥ 12-87-40(68231)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्ताशीतितमोऽध्यायः॥ 87॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-87-3 दशग्राम्यास्तथा परः। द्विगुणायाः शतस्यैवमिति झ. पाठः॥ 12-87-13 कारयेत् दापयेत्॥ 12-87-16 फलं धान्यधनवृद्ध्यादि। वृद्ध्यनुरूपः करः कल्प्य इत्यर्थः॥ 12-87-18 आत्मनो मूलं राष्ट्रम्। परेषां मूलं कृष्यादि। ईहा लोभः॥ 12-87-19 अतिखादिनं बहुभक्षम्॥ 12-87-24 संश्रिताः साक्षादाश्रिताः। उपाश्रिताः व्यवहिताः॥ 12-87-25 आटवीको दस्युसङ्घो बाह्यजनस्तं ययमुपतिष्ठध्वमिति भेदयित्वा मध्यमो ग्रामीणजनो भोक्तव्यस्ततो बहुलं धनमादद्यादित्यर्थः॥ 12-87-26 तत्र प्रकारमाह प्रागिति। चोरनिग्रहार्थं कटकबन्धः कर्तव्यस्तदर्थं धनमपेक्षितमिति पूर्वमेव आभाष्य सूचनां कृत्वा ततः सन्निपत्य तेषु तेषु ग्रामेषु गत्वा भयं दर्शयेत्॥ 12-87-33 आपत्स्वेव च वोढव्यं भवद्भिः पुङ्गवैरिवेति झ. पाठः॥ 12-87-34 स्वरश्मीन्स्वस्य रश्मिभूतान् अधिकारिणः प्रजासु धनमुद्गुहीतुं अभ्यवसृजेत्प्रेरयेत्। योगं धनग्रहणोपायम्॥ 12-87-35 गोमिनः वैश्यान्। संप्रेक्ष्य संदर्शयित्वा॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|